Stotram
Bhaktamar Stotra | भक्तामरस्तोत्रम्
Original · संस्कृतम्
Bhaktamar Stotra Sanskrit Lyrics
भक्तामरप्रणतमौलिमणिप्रभाणा- मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा- वालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्वबोधा- दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ बुद्ध्या विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब- मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ वक्तुं गुणान् गुणसमुद्र शशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनक्रचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगी मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति तच्चाम्रचारुकलिकानिकरैकहेतु ॥६॥ त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ मत्वेति नाथ तव संस्तवनं मयेद- मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्सङ्कथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ नात्यद्भुतं भुवनभूषण भूतनाथ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युतिदुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥१२॥ वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ सम्पूर्णमण्डलशशाङ्ककलाकलाप- शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि- र्नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् ॥१५॥ निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र लोके ॥१७॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ किं शर्वरीषु शशिनाह्नि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ । निष्पन्नशालिवनशालिनि जीवलोके कार्यं कियज्जलधरैर्जलभारनम्रैः ॥१९॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मिं प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस- मादित्यवर्णममलं तमसः पुरस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥२३॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धातासि धीर शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥२५॥ तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भवोदधिशोषणाय ॥२६॥ को विस्मयोऽत्र यदि नाम गुणैरशेषै- स्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ उच्चैरशोकतरुसंश्रितमुन्मयूख- माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार- मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त- मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥ गम्भीरताररवपूरितदिग्विभाग- स्त्रैलोक्यलोकशुभसङ्गमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः सन् खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥३२॥ मन्दारसुन्दरनमेरुसुपारिजात- सन्तानकादिकुसुमोत्करवृष्टिरुद्धा । गन्धोदबिन्दुशुभमन्दमरुत्प्रपाता दिव्या दिवः पतति ते वचसां ततिर्वा ॥३३॥ शुम्भत्प्रभावलयभूरिविभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती । प्रोद्यद्दिवाकरनिरन्तरभूरिसंख्या दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥३४॥ स्वर्गापवर्गगममार्गविमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व- भाषास्वभावपरिणामगुणैः प्रयोज्यः ॥३५॥ उन्निद्रहेमनवपङ्कजपुञ्जकान्ती पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३६॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र धर्मोपदेशनविधौ न तथा परस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा तादृक्कुतो ग्रहगणस्य विकासिनोऽपि ॥३७॥ श्च्योतन्मदाविलविलोलकपोलमूल- मत्तभ्रमद्भ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३८॥ भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त- मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३९॥ कल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥४०॥ रक्तेक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेण निरस्तशङ्क- स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥४१॥ वल्गत्तुरङ्गगजगर्जितभीमनाद- माजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥४२॥ कुन्ताग्रभिन्नगजशोणितवारिवाह- वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा- स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥४३॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्र- पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा- स्त्रासं विहाय भवतः स्मरणाद्व्रजन्ति ॥४४॥ उद्भूतभीषणजलोदरभारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥४६॥ मत्तद्विपेन्द्रमृगराजदवानलाहि- संग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥ स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया विविधवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४८॥
Transliteration
Bhaktamar Stotra English Lyrics
bhaktāmarapraṇatamaulimaṇiprabhāṇā- mudyotakaṃ dalitapāpatamovitānam | samyak praṇamya jinapādayugaṃ yugādā- vālambanaṃ bhavajale patatāṃ janānām ||1|| yaḥ saṃstutaḥ sakalavāṅmayatattvabodhā- dudbhūtabuddhipaṭubhiḥ suralokanāthaiḥ | stotrairjagattritayacittaharairudāraiḥ stoṣye kilāhamapi taṃ prathamaṃ jinendram ||2|| buddhyā vināpi vibudhārcitapādapīṭha stotuṃ samudyatamatirvigatatrapo'ham | bālaṃ vihāya jalasaṃsthitamindubimba- manyaḥ ka icchati janaḥ sahasā grahītum ||3|| vaktuṃ guṇān guṇasamudra śaśāṅkakāntān kaste kṣamaḥ suragurupratimo'pi buddhyā | kalpāntakālapavanoddhatanakracakraṃ ko vā tarītumalamambunidhiṃ bhujābhyām ||4|| so'haṃ tathāpi tava bhaktivaśānmunīśa kartuṃ stavaṃ vigataśaktirapi pravṛttaḥ | prītyātmavīryamavicārya mṛgī mṛgendraṃ nābhyeti kiṃ nijaśiśoḥ paripālanārtham ||5|| alpaśrutaṃ śrutavatāṃ parihāsadhāma tvadbhaktireva mukharīkurute balānmām | yatkokilaḥ kila madhau madhuraṃ virauti taccāmracārukalikānikaraikahetu ||6|| tvatsaṃstavena bhavasantatisannibaddhaṃ pāpaṃ kṣaṇātkṣayamupaiti śarīrabhājām | ākrāntalokamalinīlamaśeṣamāśu sūryāṃśubhinnamiva śārvaramandhakāram ||7|| matveti nātha tava saṃstavanaṃ mayeda- mārabhyate tanudhiyāpi tava prabhāvāt | ceto hariṣyati satāṃ nalinīdaleṣu muktāphaladyutimupaiti nanūdabinduḥ ||8|| āstāṃ tava stavanamastasamastadoṣaṃ tvatsaṅkathāpi jagatāṃ duritāni hanti | dūre sahasrakiraṇaḥ kurute prabhaiva padmākareṣu jalajāni vikāsabhāñji ||9|| nātyadbhutaṃ bhuvanabhūṣaṇa bhūtanātha bhūtairguṇairbhuvi bhavantamabhiṣṭuvantaḥ | tulyā bhavanti bhavato nanu tena kiṃ vā bhūtyāśritaṃ ya iha nātmasamaṃ karoti ||10|| dṛṣṭvā bhavantamanimeṣavilokanīyaṃ nānyatra toṣamupayāti janasya cakṣuḥ | pītvā payaḥ śaśikaradyutidugdhasindhoḥ kṣāraṃ jalaṃ jalanidherasituṃ ka icchet ||11|| yaiḥ śāntarāgarucibhiḥ paramāṇubhistvaṃ nirmāpitastribhuvanaikalalāmabhūta | tāvanta eva khalu te'pyaṇavaḥ pṛthivyāṃ yatte samānamaparaṃ na hi rūpamasti ||12|| vaktraṃ kva te suranaroraganetrahāri niḥśeṣanirjitajagattritayopamānam | bimbaṃ kalaṅkamalinaṃ kva niśākarasya yadvāsare bhavati pāṇḍupalāśakalpam ||13|| sampūrṇamaṇḍalaśaśāṅkakalākalāpa- śubhrā guṇāstribhuvanaṃ tava laṅghayanti | ye saṃśritāstrijagadīśvaranāthamekaṃ kastānnivārayati sañcarato yatheṣṭam ||14|| citraṃ kimatra yadi te tridaśāṅganābhi- rnītaṃ manāgapi mano na vikāramārgam | kalpāntakālamarutā calitācalena kiṃ mandarādriśikharaṃ calitaṃ kadācit ||15|| nirdhūmavartirapavarjitatailapūraḥ kṛtsnaṃ jagattrayamidaṃ prakaṭīkaroṣi | gamyo na jātu marutāṃ calitācalānāṃ dīpo'parastvamasi nātha jagatprakāśaḥ ||16|| nāstaṃ kadācidupayāsi na rāhugamyaḥ spaṣṭīkaroṣi sahasā yugapajjaganti | nāmbhodharodaraniruddhamahāprabhāvaḥ sūryātiśāyimahimāsi munīndra loke ||17|| nityodayaṃ dalitamohamahāndhakāraṃ gamyaṃ na rāhuvadanasya na vāridānām | vibhrājate tava mukhābjamanalpakānti vidyotayajjagadapūrvaśaśāṅkabimbam ||18|| kiṃ śarvarīṣu śaśināhni vivasvatā vā yuṣmanmukhendudaliteṣu tamassu nātha | niṣpannaśālivanaśālini jīvaloke kāryaṃ kiyajjaladharairjalabhāranamraiḥ ||19|| jñānaṃ yathā tvayi vibhāti kṛtāvakāśaṃ naivaṃ tathā hariharādiṣu nāyakeṣu | tejaḥ sphuranmaṇiṣu yāti yathā mahattvaṃ naivaṃ tu kācaśakale kiraṇākule'pi ||20|| manye varaṃ hariharādaya eva dṛṣṭā dṛṣṭeṣu yeṣu hṛdayaṃ tvayi toṣameti | kiṃ vīkṣitena bhavatā bhuvi yena nānyaḥ kaścinmano harati nātha bhavāntare'pi ||21|| strīṇāṃ śatāni śataśo janayanti putrān nānyā sutaṃ tvadupamaṃ jananī prasūtā | sarvā diśo dadhati bhāni sahasraraśmiṃ prācyeva digjanayati sphuradaṃśujālam ||22|| tvāmāmananti munayaḥ paramaṃ pumāṃsa- mādityavarṇamamalaṃ tamasaḥ purastāt | tvāmeva samyagupalabhya jayanti mṛtyuṃ nānyaḥ śivaḥ śivapadasya munīndra panthāḥ ||23|| tvāmavyayaṃ vibhumacintyamasaṃkhyamādyaṃ brahmāṇamīśvaramanantamanaṅgaketum | yogīśvaraṃ viditayogamanekamekaṃ jñānasvarūpamamalaṃ pravadanti santaḥ ||24|| buddhastvameva vibudhārcitabuddhibodhāt tvaṃ śaṅkaro'si bhuvanatrayaśaṅkaratvāt | dhātāsi dhīra śivamārgavidhervidhānād vyaktaṃ tvameva bhagavan puruṣottamo'si ||25|| tubhyaṃ namastribhuvanārtiharāya nātha tubhyaṃ namaḥ kṣititalāmalabhūṣaṇāya | tubhyaṃ namastrijagataḥ parameśvarāya tubhyaṃ namo jina bhavodadhiśoṣaṇāya ||26|| ko vismayo'tra yadi nāma guṇairaśeṣai- stvaṃ saṃśrito niravakāśatayā munīśa | doṣairupāttavividhāśrayajātagarvaiḥ svapnāntare'pi na kadācidapīkṣito'si ||27|| uccairaśokatarusaṃśritamunmayūkha- mābhāti rūpamamalaṃ bhavato nitāntam | spaṣṭollasatkiraṇamastatamovitānaṃ bimbaṃ raveriva payodharapārśvavarti ||28|| siṃhāsane maṇimayūkhaśikhāvicitre vibhrājate tava vapuḥ kanakāvadātam | bimbaṃ viyadvilasadaṃśulatāvitānaṃ tuṅgodayādriśirasīva sahasraraśmeḥ ||29|| kundāvadātacalacāmaracāruśobhaṃ vibhrājate tava vapuḥ kaladhautakāntam | udyacchaśāṅkaśucinirjharavāridhāra- muccaistaṭaṃ suragireriva śātakaumbham ||30|| chatratrayaṃ tava vibhāti śaśāṅkakānta- muccaiḥ sthitaṃ sthagitabhānukarapratāpam | muktāphalaprakarajālavivṛddhaśobhaṃ prakhyāpayattrijagataḥ parameśvaratvam ||31|| gambhīratāraravapūritadigvibhāga- strailokyalokaśubhasaṅgamabhūtidakṣaḥ | saddharmarājajayaghoṣaṇaghoṣakaḥ san khe dundubhirdhvanati te yaśasaḥ pravādī ||32|| mandārasundaranamerusupārijāta- santānakādikusumotkaravṛṣṭiruddhā | gandhodabinduśubhamandamarutprapātā divyā divaḥ patati te vacasāṃ tatirvā ||33|| śumbhatprabhāvalayabhūrivibhā vibhoste lokatraye dyutimatāṃ dyutimākṣipantī | prodyaddivākaranirantarabhūrisaṃkhyā dīptyā jayatyapi niśāmapi somasaumyām ||34|| svargāpavargagamamārgavimārgaṇeṣṭaḥ saddharmatattvakathanaikapaṭustrilokyāḥ | divyadhvanirbhavati te viśadārthasarva- bhāṣāsvabhāvapariṇāmaguṇaiḥ prayojyaḥ ||35|| unnidrahemanavapaṅkajapuñjakāntī paryullasannakhamayūkhaśikhābhirāmau | pādau padāni tava yatra jinendra dhattaḥ padmāni tatra vibudhāḥ parikalpayanti ||36|| itthaṃ yathā tava vibhūtirabhūjjinendra dharmopadeśanavidhau na tathā parasya | yādṛkprabhā dinakṛtaḥ prahatāndhakārā tādṛkkuto grahagaṇasya vikāsino'pi ||37|| ścyotanmadāvilavilolakapolamūla- mattabhramadbhramaranādavivṛddhakopam | airāvatābhamibhamuddhatamāpatantaṃ dṛṣṭvā bhayaṃ bhavati no bhavadāśritānām ||38|| bhinnebhakumbhagaladujjvalaśoṇitākta- muktāphalaprakarabhūṣitabhūmibhāgaḥ | baddhakramaḥ kramagataṃ hariṇādhipo'pi nākrāmati kramayugācalasaṃśritaṃ te ||39|| kalpāntakālapavanoddhatavahnikalpaṃ dāvānalaṃ jvalitamujjvalamutsphuliṅgam | viśvaṃ jighatsumiva sammukhamāpatantaṃ tvannāmakīrtanajalaṃ śamayatyaśeṣam ||40|| raktekṣaṇaṃ samadakokilakaṇṭhanīlaṃ krodhoddhataṃ phaṇinamutphaṇamāpatantam | ākrāmati kramayugeṇa nirastaśaṅka- stvannāmanāgadamanī hṛdi yasya puṃsaḥ ||41|| valgatturaṅgagajagarjitabhīmanāda- mājau balaṃ balavatāmapi bhūpatīnām | udyaddivākaramayūkhaśikhāpaviddhaṃ tvatkīrtanāttama ivāśu bhidāmupaiti ||42|| kuntāgrabhinnagajaśoṇitavārivāha- vegāvatārataraṇāturayodhabhīme | yuddhe jayaṃ vijitadurjayajeyapakṣā- stvatpādapaṅkajavanāśrayiṇo labhante ||43|| ambhonidhau kṣubhitabhīṣaṇanakracakra- pāṭhīnapīṭhabhayadolbaṇavāḍavāgnau | raṅgattaraṅgaśikharasthitayānapātrā- strāsaṃ vihāya bhavataḥ smaraṇādvrajanti ||44|| udbhūtabhīṣaṇajalodarabhārabhugnāḥ śocyāṃ daśāmupagatāścyutajīvitāśāḥ | tvatpādapaṅkajarajo'mṛtadigdhadehā martyā bhavanti makaradhvajatulyarūpāḥ ||45|| āpādakaṇṭhamuruśṛṅkhalaveṣṭitāṅgā gāḍhaṃ bṛhannigaḍakoṭinighṛṣṭajaṅghāḥ | tvannāmamantramaniśaṃ manujāḥ smarantaḥ sadyaḥ svayaṃ vigatabandhabhayā bhavanti ||46|| mattadvipendramṛgarājadavānalāhi- saṃgrāmavāridhimahodarabandhanottham | tasyāśu nāśamupayāti bhayaṃ bhiyeva yastāvakaṃ stavamimaṃ matimānadhīte ||47|| stotrasrajaṃ tava jinendra guṇairnibaddhāṃ bhaktyā mayā vividhavarṇavicitrapuṣpām | dhatte jano ya iha kaṇṭhagatāmajasraṃ taṃ mānatuṅgamavaśā samupaiti lakṣmīḥ ||48||
Meaning
Bhaktamar Stotra English Meaning
Bowing with heart, word and body to the feet of the Jina — feet that make the gems in the crowns of the devoted gods shine brighter as they bow, that scatter the spreading darkness of sin, and that at the dawn of this age became the support of beings sinking in the waters of worldly existence — — I too shall surely praise that first Jina, who was praised by the lords of the gods, their minds made keen by understanding the essence of all scripture, in noble hymns that captivate the three worlds. O Lord, whose footstool the gods worship! Though I lack understanding, I have set aside shame and resolved to praise you. Who but a child would suddenly try to grasp the moon's reflection lying in water? O ocean of virtues! Who can describe your virtues, lovely as the moon — even one as wise as Brihaspati, teacher of the gods? Who can swim with his arms across the ocean when the winds at the end of the age toss its crocodiles about? Even so, O lord of sages, powerless as I am, devotion to you has set me to composing this hymn. Does not a doe, out of love and without weighing her own strength, go to face a lion to protect her young? I know little and am a laughing-stock to the learned; it is devotion to you alone that makes me speak. If the cuckoo sings sweetly in spring, the one cause of it is the cluster of lovely mango blossoms. Through praise of you, the sin that embodied beings have bound over a long chain of births is destroyed in an instant, just as the night's darkness, black as a bee, that covered the whole world is quickly pierced by the rays of the sun. Thinking this, O Lord, I begin this hymn to you, slight as my understanding is. By your power it will win the hearts of the good, just as a drop of water on a lotus leaf takes on the lustre of a pearl. Let alone your hymn, which is free of every flaw: even talk of you destroys the sins of the world. The sun stays far away, yet its light alone makes the lotuses in the ponds open. O ornament of the world, lord of all beings! It is no great wonder that those who praise you for your true virtues become equal to you here on earth. What use is a master who does not, through his wealth, make those who depend on him equal to himself? Once a person's eyes have seen you, who deserve to be gazed at without blinking, they find satisfaction nowhere else. Having drunk the moon-bright milk of the Ocean of Milk, who would wish to taste the salt water of the sea? O unique ornament of the three worlds! The atoms of serene, passionless radiance from which you were formed were only as many on earth as went into you; that is why no other form is equal to yours. Where is your face, which delights the eyes of gods, humans and serpent-beings and surpasses every comparison in the three worlds? And where is the moon's orb, stained by its mark, which by day looks like a pale, withered palasha leaf? Your virtues, bright as the digits of the full moon, spread beyond the three worlds. Who can stop those who have taken refuge in the one Lord of the lords of the three worlds from roaming wherever they wish? What wonder is it if the celestial women could not lead your mind even slightly toward any disturbance? The wind at the end of the age shakes every mountain, but has it ever shaken the peak of Mount Mandara? O Lord, you are a different kind of lamp, one that lights up the world: you have no smoke and no wick, need no oil, yet reveal the whole of the three worlds, and the winds that shake mountains can never reach you. O great sage, you never set, Rahu cannot seize you, and you light up all the worlds at once; no rain-cloud can hide your great power. In this world your glory surpasses the sun's. Your lotus face, of boundless radiance, shines like a wondrous new moon that lights up the world: it is ever risen, it has dispelled the deep darkness of delusion, and neither Rahu's mouth nor the clouds can reach it. O Lord, when the moon of your face has destroyed the darkness, what need is there of the moon by night or the sun by day? When the world is rich with ripened fields of rice, what use are clouds bowed down with water? Knowledge shines in you, where it has found its full home, as it does not in other leaders such as Hari and Hara. A brilliant gem has a splendour that a piece of glass lacks, even when the glass glitters with light. I think it was good that I saw Hari, Hara and the others first, for having seen them my heart finds its contentment in you. And what came of seeing you? That no one else on earth can ever win my heart, even in another life. Hundreds of women bear hundreds of sons, but no other mother has borne a son like you. Every direction holds stars, but only the east gives birth to the sun with its blazing net of rays. Sages call you the Supreme Person, radiant as the sun, stainless, untouched by darkness. By truly realising you alone they conquer death; O great sage, there is no other blessed path to the state of liberation. The good call you imperishable, all-pervading, inconceivable, beyond number and the first; Brahma, the Lord, the infinite, the destroyer of the god of love; lord of yogis, knower of yoga, many and yet one, knowledge itself, and stainless. You alone are the Buddha, for the gods honour your awakened understanding; you are Shankara, for you bring well-being to the three worlds; O steadfast one, you are the Creator, for you laid down the way to liberation; and clearly, O Lord, you alone are Purushottama, the highest person. Salutation to you, O Lord, who take away the suffering of the three worlds; salutation to you, pure ornament of the earth; salutation to you, supreme lord of the three worlds; salutation to you, O Jina, who dry up the ocean of birth and death. O lord of sages, what wonder is it if every virtue has taken refuge in you, leaving no room for anything else? The faults, proud of the many other homes they had found, have never seen you even in a dream. Beneath the tall Ashoka tree your spotless form, its rays streaming upward, shines brightly, like the orb of the sun beside a cloud, its rays clearly gleaming and the mass of darkness driven away. On the lion-throne, many-coloured with the glinting rays of its gems, your golden body shines like the orb of the sun on the summit of the lofty eastern mountain, its rays spreading across the sky like creepers. Your body, bright as gold and graced by waving chowries white as jasmine, shines like the high golden slope of Mount Meru with streams of water, pure as the rising moon, pouring down it. Your three parasols, lovely as the moon, stand high above you, holding back the heat of the sun's rays; their beauty heightened by nets of pearls, they proclaim your supreme lordship over the three worlds. The celestial drum sounds in the sky as the herald of your fame: its deep, clear note fills every quarter, it is able to bring the people of the three worlds to an auspicious gathering, and it proclaims the victory of the king of true dharma. A shower of heavenly flowers — mandara, sundara, nameru, parijata, santanaka and others — falls from the sky with drops of fragrant water and a gentle breeze, as if it were the stream of your words. O Lord, your shining halo outshines the brilliance of every radiant thing in the three worlds; bright as countless rising suns together, it yet surpasses in its glow even the night made gentle by the moon. Your divine voice is sought by all who search for the path to heaven and liberation, and it is uniquely skilled at teaching the truth of the dharma to the three worlds. Its meaning is clear, and by its own nature it turns into every language. O Jinendra, wherever you set your feet — radiant as a cluster of fresh golden lotuses in bloom, lovely with the rays shining from their nails — there the gods lay out lotuses. Thus, O Jinendra, the splendour that was yours as you taught the dharma belonged to no one else. How could the planets, however bright, have the light of the sun that destroys the darkness? Those who have taken refuge in you feel no fear even on seeing an elephant like Airavata charging at them in fury, its restless cheeks wet with flowing ichor and its rage swollen by the humming of the maddened bees that circle it. Even a lion that has torn open the temples of elephants and strewn the ground with pearls smeared in their bright blood, crouched and ready to spring, will not attack one who has taken shelter in the mountain of your two feet, though he has come within its reach. The water of chanting your name wholly puts out even a forest fire that blazes like the fire at the end of the age fanned by its winds — bright, throwing up sparks, rushing forward as if to devour the world. A person in whose heart your name dwells, as the herb that tames serpents, steps fearlessly over a cobra that rushes at him with hood raised — red-eyed, black as the throat of an excited cuckoo, and swollen with anger. In battle, even the army of mighty kings, dreadful with the noise of prancing horses and trumpeting elephants, is swiftly broken up by chanting your name, as darkness is pierced by the rays of the rising sun. In a battle made terrible by warriors eager to cross the rushing streams of blood from elephants pierced by spear-points, those who shelter in the lotus-grove of your feet overcome even an unconquerable foe and win the victory. On an ocean churned up by fearsome crocodiles and great fish, with a terrible undersea fire raging beneath, those whose ships ride the crests of the rolling waves leave their fear behind and go on safely by remembering you. People bent under the weight of terrible dropsy, brought to a pitiable state and despairing of life, become as beautiful as the god of love when their bodies are anointed with the nectar-like dust of your lotus feet. People bound from foot to neck in great chains, their shins rubbed raw by the edges of heavy fetters, are at once freed of the fear of bondage by constantly remembering the mantra of your name. For the wise person who recites this hymn of yours, the fear that comes from a maddened elephant, a lion, a forest fire, a snake, battle, the ocean, dropsy and bondage quickly perishes, as if itself afraid. O Jinendra, this garland of praise I have strung with devotion on the thread of your virtues, bright with flowers of many colours (its many letters): whoever always wears it at the throat, that person, lofty in honour (manatunga), Lakshmi seeks out of her own accord. The verse carries the poet's name, Manatunga.
अर्थ
Bhaktamar Stotra Hindi Meaning
भक्त देवताओं के झुके हुए मुकुटों की मणियों की कान्ति को और भी चमका देने वाले, पापरूपी अन्धकार के फैलाव को नष्ट करने वाले, और इस युग के आरम्भ में संसार-सागर में डूबते प्राणियों का सहारा बने जिनेन्द्र के चरणयुगल को भली-भाँति प्रणाम करके — — जिनकी स्तुति समस्त शास्त्रों के सार को जानने से प्रखर बुद्धि वाले देवेन्द्रों ने तीनों लोकों का मन हरने वाले उदात्त स्तोत्रों से की है, उन प्रथम जिनेन्द्र (ऋषभदेव) की मैं भी स्तुति करूँगा। हे देवताओं द्वारा पूजित चरण-पीठ वाले प्रभु! बुद्धि न होते हुए भी मैं लाज छोड़कर आपकी स्तुति करने को तत्पर हुआ हूँ। जल में दिखते चन्द्रमा के प्रतिबिम्ब को सहसा पकड़ना बालक के सिवा और कौन चाहेगा? हे गुणों के सागर! चन्द्रमा के समान उज्ज्वल आपके गुणों का वर्णन करने में देवगुरु बृहस्पति जैसा बुद्धिमान भी कौन समर्थ है? प्रलयकाल की आँधी से उछलते मगरमच्छों वाले समुद्र को भुजाओं से तैरकर कौन पार कर सकता है? फिर भी, हे मुनीश, शक्तिहीन होते हुए भी मैं आपकी भक्ति के वश होकर यह स्तुति रचने में लगा हूँ। क्या हिरनी प्रेमवश अपनी शक्ति का विचार किए बिना अपने बच्चे की रक्षा के लिए सिंह के सामने नहीं जाती? मैं अल्पज्ञानी हूँ और विद्वानों के लिए हँसी का पात्र हूँ; आपकी भक्ति ही मुझे बलपूर्वक बोलने को विवश कर रही है। वसन्त में कोयल जो मधुर कूक करती है, उसका एकमात्र कारण आम की सुन्दर मंजरियों का समूह ही है। आपकी स्तुति से देहधारियों के जन्म-जन्मान्तर से बँधे पाप क्षण भर में नष्ट हो जाते हैं, जैसे सारे संसार पर छाया, भौंरे-सा काला रात्रि का अन्धकार सूर्य की किरणों से शीघ्र छिन्न-भिन्न हो जाता है। हे नाथ, ऐसा मानकर मैं अल्पबुद्धि होते हुए भी आपकी यह स्तुति आरम्भ कर रहा हूँ। आपके प्रभाव से यह सज्जनों का मन हर लेगी, जैसे कमल के पत्ते पर पड़ी जल की बूँद मोती जैसी चमक पा लेती है। समस्त दोषों से रहित आपकी स्तुति की तो बात ही क्या, आपकी चर्चा मात्र भी जगत के पापों को नष्ट कर देती है। सूर्य दूर रहता है, फिर भी उसकी प्रभा ही सरोवरों में कमलों को खिला देती है। हे जगत के आभूषण, हे प्राणियों के स्वामी! इसमें कोई बड़ा आश्चर्य नहीं कि आपके यथार्थ गुणों से आपकी स्तुति करने वाले इसी लोक में आपके समान हो जाते हैं। उस स्वामी से क्या लाभ जो अपने आश्रित को अपने वैभव से अपने समान न बना दे? जिन्हें अपलक निहारते रहने का मन करे, ऐसे आपके दर्शन कर लेने पर मनुष्य की आँखें और कहीं सन्तोष नहीं पातीं। चन्द्रकिरणों-से उजले क्षीरसागर का दूध पी लेने के बाद समुद्र का खारा जल कौन चखना चाहेगा? हे तीनों लोकों के अद्वितीय आभूषण! जिन शान्त, वीतराग कान्ति वाले परमाणुओं से आपका शरीर रचा गया, पृथ्वी पर वे निश्चय ही उतने ही थे; इसीलिए आपके समान दूसरा कोई रूप नहीं है। कहाँ देवों, मनुष्यों और नागों के नेत्रों को हरने वाला, तीनों लोकों की सब उपमाओं को जीत लेने वाला आपका मुख, और कहाँ कलंक से मलिन चन्द्रमा का बिम्ब, जो दिन में पीले पड़े पलाश के पत्ते जैसा दिखता है! पूर्ण चन्द्रमा की कलाओं के समान उज्ज्वल आपके गुण तीनों लोकों को लाँघ जाते हैं। जिन्होंने तीनों लोकों के स्वामियों के एकमात्र नाथ का आश्रय ले लिया है, उन्हें इच्छानुसार विचरने से कौन रोक सकता है? यदि देवांगनाएँ आपके मन को तनिक भी विकार की ओर न ले जा सकीं, तो इसमें आश्चर्य ही क्या? प्रलयकाल की जिस आँधी से सब पर्वत डोल जाते हैं, क्या उससे कभी मन्दराचल का शिखर डोला है? हे नाथ, आप जगत को प्रकाशित करने वाले अनोखे दीपक हैं: न धुआँ, न बत्ती, न तेल की आवश्यकता, फिर भी आप तीनों लोकों को प्रकट कर देते हैं, और पर्वतों को हिला देने वाली हवाएँ भी आप तक कभी नहीं पहुँच पातीं। हे मुनीन्द्र, आप कभी अस्त नहीं होते, राहु आपको ग्रस नहीं सकता, आप सब लोकों को एक साथ प्रकाशित कर देते हैं, और कोई बादल आपके महान प्रभाव को ढक नहीं सकता। इस लोक में आपकी महिमा सूर्य से भी बढ़कर है। आपका अपार कान्ति वाला मुखकमल जगत को प्रकाशित करते एक अपूर्व चन्द्रमा की तरह शोभित है: यह सदा उदित रहता है, मोह के घने अन्धकार को नष्ट कर चुका है, और न राहु का मुख इसे ग्रस सकता है, न बादल इसे ढक सकते हैं। हे नाथ, जब आपके मुखरूपी चन्द्रमा ने अन्धकार मिटा दिया, तब रात में चन्द्रमा और दिन में सूर्य का क्या प्रयोजन? जब संसार पकी हुई धान की फसलों से सज चुका हो, तब जल के भार से झुके बादलों का क्या काम? जैसा ज्ञान आपमें पूरा स्थान पाकर शोभित है, वैसा हरि-हर आदि अन्य नायकों में नहीं। जो महिमा जगमगाती मणियों के तेज की होती है, वह किरणों से चमकते काँच के टुकड़े की नहीं होती। मैं मानता हूँ कि मैंने पहले हरि-हर आदि को देखा, यह अच्छा ही हुआ, क्योंकि उन्हें देख लेने पर मेरा हृदय आपमें ही सन्तोष पाता है। और आपको देखने से क्या हुआ? यही कि अब पृथ्वी पर कोई दूसरा, अगले जन्म में भी, मेरा मन नहीं हर सकेगा। सैकड़ों स्त्रियाँ सैकड़ों पुत्रों को जन्म देती हैं, पर आप जैसे पुत्र को किसी दूसरी माता ने जन्म नहीं दिया। तारे तो सभी दिशाएँ धारण करती हैं, पर चमकती किरणों के जाल वाले सूर्य को केवल पूर्व दिशा ही जन्म देती है। मुनिजन आपको परम पुरुष, सूर्य के समान तेजस्वी, निर्मल और अन्धकार से अछूता बताते हैं। आपको ही भली-भाँति पाकर वे मृत्यु को जीत लेते हैं; हे मुनीन्द्र, मोक्षपद का इसके सिवा कोई दूसरा कल्याणकारी मार्ग नहीं है। सन्तजन आपको अविनाशी, व्यापक, अचिन्त्य, असंख्य, आदि, ब्रह्मा, ईश्वर, अनन्त, कामदेव का विनाश करने वाले, योगीश्वर, योग के ज्ञाता, अनेक और एक, ज्ञानस्वरूप और निर्मल कहते हैं। देवताओं द्वारा पूजित बुद्धि-बोध के कारण आप ही बुद्ध हैं; तीनों लोकों का कल्याण करने के कारण आप ही शंकर हैं; हे धीर, मोक्षमार्ग की विधि का विधान करने के कारण आप ही विधाता हैं; और हे भगवन्, स्पष्ट ही आप ही पुरुषोत्तम हैं। हे नाथ, तीनों लोकों की पीड़ा हरने वाले आपको नमस्कार; पृथ्वी के निर्मल आभूषण आपको नमस्कार; तीनों जगत के परमेश्वर आपको नमस्कार; हे जिन, संसार-सागर को सुखा देने वाले आपको नमस्कार। हे मुनीश, यदि सब गुणों ने आपका ऐसा आश्रय लिया कि किसी और के लिए जगह ही न बची, तो इसमें आश्चर्य क्या? दोषों को तो अनेक दूसरे ठिकाने मिल जाने का घमंड है, इसलिए उन्होंने आपको सपने में भी कभी नहीं देखा। ऊँचे अशोक वृक्ष के नीचे ऊपर की ओर फैलती किरणों वाला आपका निर्मल रूप अत्यन्त शोभित होता है, जैसे बादल के पास स्थित, स्पष्ट चमकती किरणों वाला और अन्धकार को मिटा चुका सूर्य का बिम्ब। मणियों की किरणों से रंग-बिरंगे सिंहासन पर आपका स्वर्ण-सा उज्ज्वल शरीर ऐसा शोभित होता है, जैसे ऊँचे उदयाचल की चोटी पर आकाश में लताओं-सी फैलती किरणों वाला सूर्य का बिम्ब। कुन्द के फूल-से श्वेत, डुलते चँवरों से सुशोभित आपका स्वर्णकान्ति शरीर ऐसा शोभित होता है, जैसे उगते चन्द्रमा-से निर्मल झरनों की धाराओं वाला सुमेरु पर्वत का ऊँचा स्वर्णिम तट। चन्द्रमा-से सुन्दर, ऊँचे स्थित, सूर्य-किरणों के ताप को रोकने वाले और मोतियों की झालरों से और भी सुशोभित आपके तीन छत्र तीनों लोकों पर आपके परमेश्वरत्व की घोषणा करते हैं। गम्भीर और ऊँचे स्वर से सब दिशाओं को भर देने वाली, तीनों लोकों के जीवों को शुभ समागम का वैभव देने में समर्थ, और सद्धर्म के राजा की जय-घोषणा करने वाली देव-दुन्दुभि आकाश में आपके यश का गान करती हुई बजती है। मन्दार, सुन्दर, नमेरु, पारिजात, सन्तानक आदि दिव्य फूलों की उत्तम वर्षा सुगन्धित जल की बूँदों और मन्द पवन के साथ आकाश से गिरती है, मानो आपके वचनों की पंक्ति ही बरस रही हो। हे विभो, आपका देदीप्यमान प्रभामण्डल तीनों लोकों के सब तेजस्वी पदार्थों की कान्ति को फीका कर देता है; अनगिनत उगते सूर्यों-सा प्रखर होते हुए भी वह अपनी दीप्ति से चन्द्रमा-सी सौम्य रात्रि को भी जीत लेता है। स्वर्ग और मोक्ष का मार्ग खोजने वालों को इष्ट, तीनों लोकों को सद्धर्म का तत्त्व समझाने में अद्वितीय रूप से कुशल आपकी दिव्यध्वनि स्पष्ट अर्थ वाली होती है और अपने स्वभाव से सब भाषाओं में बदल जाने के गुण से युक्त होती है। हे जिनेन्द्र, खिले हुए नवीन स्वर्ण-कमलों के समूह-सी कान्ति वाले और चमकते नखों की किरणों से मनोहर आपके चरण जहाँ-जहाँ पड़ते हैं, वहाँ-वहाँ देवता कमलों की रचना कर देते हैं। हे जिनेन्द्र, इस प्रकार धर्मोपदेश के समय जैसी विभूति आपकी हुई, वैसी किसी और की नहीं। अन्धकार को नष्ट करने वाली जैसी प्रभा सूर्य की होती है, वैसी चमकते हुए ग्रहों की भी कहाँ से होगी? जिसके चंचल कपोलों से मद बह रहा हो और उस पर मँडराते मतवाले भौंरों की गुंजार से जिसका क्रोध और भड़क उठा हो, ऐसे ऐरावत-जैसे उद्दण्ड हाथी को अपनी ओर झपटते देखकर भी आपके आश्रितों को भय नहीं होता। हाथियों के गण्डस्थल फाड़कर बहते उज्ज्वल रक्त से सने मोतियों से धरती को सजा देने वाला, छलाँग लगाने को तैयार सिंह भी अपनी पहुँच में आए उस व्यक्ति पर आक्रमण नहीं करता, जिसने आपके चरणयुगलरूपी पर्वत का आश्रय ले लिया है। प्रलयकाल की आँधी से भड़की अग्नि के समान धधकती, उज्ज्वल, चिनगारियाँ उड़ाती और मानो संसार को निगल जाने के लिए सामने दौड़ती दावाग्नि को भी आपके नाम-कीर्तन का जल पूरी तरह शान्त कर देता है। जिसके हृदय में आपका नामरूपी नागदमनी (सर्प को वश में करने वाली औषधि) बसता है, वह लाल आँखों वाले, मतवाली कोयल के कण्ठ-से काले, क्रोध से भरे और फन उठाए झपटते सर्प को भी निडर होकर अपने पैरों से लाँघ जाता है। युद्ध में उछलते घोड़ों और चिंघाड़ते हाथियों के भयानक शोर वाली बलवान राजाओं की सेना भी आपके नाम-कीर्तन से शीघ्र ही वैसे छिन्न-भिन्न हो जाती है, जैसे उगते सूर्य की किरणों से बिंधा अन्धकार। भालों की नोकों से बिंधे हाथियों के रक्त की तेज़ धाराओं को पार करने को आतुर योद्धाओं से भयानक बने युद्ध में, आपके चरणकमलों के वन की शरण लेने वाले अजेय शत्रु-पक्ष को भी जीतकर विजय पाते हैं। भयंकर मगरमच्छों और बड़ी-बड़ी मछलियों से क्षुब्ध और भय देने वाली प्रचण्ड बड़वाग्नि से युक्त समुद्र में, उछलती लहरों के शिखरों पर डोलते जहाज़ों वाले लोग भी आपके स्मरण से भय छोड़कर आगे बढ़ जाते हैं। भयानक जलोदर रोग के भार से झुके, दयनीय दशा को पहुँचे और जीवन की आशा छोड़ चुके मनुष्य भी आपके चरणकमलों की अमृत-समान धूल से शरीर लिप्त होने पर कामदेव के समान सुन्दर रूप वाले हो जाते हैं। पैरों से गले तक भारी ज़ंजीरों में जकड़े, जिनकी पिंडलियाँ बड़ी-बड़ी बेड़ियों की नोकों से छिल गई हों, ऐसे मनुष्य भी आपके नाम-मन्त्र का निरन्तर स्मरण करते हुए तुरन्त स्वयं ही बन्धन के भय से मुक्त हो जाते हैं। जो बुद्धिमान आपके इस स्तोत्र का पाठ करता है, उसका मतवाले हाथी, सिंह, दावानल, सर्प, युद्ध, समुद्र, जलोदर और बन्धन से उत्पन्न भय मानो स्वयं डरकर शीघ्र ही नष्ट हो जाता है। हे जिनेन्द्र, आपके गुणों के धागे में गूँथी, मेरे द्वारा भक्ति से रची, अनेक वर्णों (अक्षरों) रूपी रंग-बिरंगे फूलों वाली इस स्तोत्र-माला को जो व्यक्ति सदा कण्ठ में धारण करता है (कण्ठस्थ रखता है), उस सम्मान से ऊँचे (मानतुंग) व्यक्ति के पास लक्ष्मी स्वयं विवश होकर आती है। इस श्लोक में रचयिता मानतुंग का नाम भी आया है।
Listen
Recitation video

Significance
Bhaktamar Stotra Significance
A Sanskrit hymn by Acharya Manatunga to Rishabhanatha (Adinatha), the first Tirthankara, in the Vasantatilaka metre; it is the most widely recited Jain stotra, chanted daily and at temple worship by Digambaras and Shvetambaras alike. All 48 verses are given here, as Digambaras recite them. The Shvetambara recitation has 44 verses: it omits verses 32–35 (the celestial drum, the shower of flowers, the halo and the divine voice — four of the eight pratiharyas), so verses 36–48 here are Shvetambara verses 32–44.
Keep reading




